शनी वज्र पंजर कवच
श्रीब्रह्मोवाच –
श्रृणुध्वमृषय:सर्वे शनि पीडाहरं महत्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम्।
कवचं देवतावासं वज्रपंजर संज्ञकम्।
शनैश्चर प्रीतिकरं सर्वसौभाग्य दायकम्।
मूल पाठ –
विनियोग : ऊँ अस्य श्रीशनैश्चर वज्रपंजर कवचस्य कश्यप ऋषि:, अनुष्टुप् छन्द:, श्रीशनैश्चर: देवता, श्रीशनैश्चर प्रीत्यर्थे पाठे विनियोग:।
ऋष्यादिन्यास : शिरसि कश्यप ऋषये नम: । मुखे अनुष्टुप् छन्दसे नम: । हृदि श्रीशनैश्चर: देवतायै नम: । सर्वांगे श्रीशनैश्चर प्रीत्यर्थे पाठे विनियोगाय नम: ।
ध्यानम् –
नीलाम्बरो नीलवपु: कीरीटी गृघ्रस्थित: त्रासक: धनुष्करो ।
चतुर्भुज: सूर्यसुत: प्रसन्न: सदा ममस्यात् वरद: प्रशान्त: ।।
श्रीब्रह्मोवाच –
श्रृणुध्वम्ऋषय सर्वे शनिपीड़ाहरं महत्
कवचं शनिराजस्य सौरेरिद मनुत्तमम
कवचं देवतावासं वज्रपंजर अंशकम्
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम्
शिर: शनैश्चर: पातु भालं मे सूर्य नन्दन: ।
नेत्रे छायात्मज: पातु पातु कर्णौ यमानुज:।।3।।
नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।
स्निग्ध कण्ठश्च मे कण्ठं भुजौ पातु महाभुज: ।।4।।
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद: ।
वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्तथा ।।5।।
नाभिं ग्रह पति: पातु मन्द: पातु कटिं तथा ।
ऊरू ममान्तक: पातु यमो जानु युगं तथा ।।6।।
पादौ मन्द गति: पातु सर्वांग पातु पिप्पल: ।
अंगोपांगानि सर्वाणि रक्षेत् मे सूर्यनन्दन: ।।7।।
फलश्रुति –
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य: ।
न तस्य जायते पीडा प्रीतो भवति सूर्यज: ।।1।।
व्यय जन्म द्वितीयस्थो मृत्युस्थान गतोSपि वा
कालस्थ गतो वाSपि सुप्रीतस्तु सदा शनि: ।।2।।
अष्टमस्थे सूर्यसुते व्यये जन्म द्वितीयगे ।
कवचं पठतो नित्यं न पीडा जायते क्वचित् ।।3।।
इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
द्वादशाष्टम जन्मस्थ दोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान् नाशयते प्रभु ।।4।।
हे शनी कवच वाचल्याने शनी पीडा नाहीसी होते, जरी शनी अष्टम, द्वादश अथवा मारकेश असेल तरी शनी पीडा नष्ट होऊन लाभ होतात. शनी ची साडेसाती, पनोती यात लाभ प्रद
टीप मांसाहार वर्ज्य करने पाठ चालू असताना आणि ब्रम्ह्चर्य पाळणे..